________________
अथ नृपदेवालयविधानपूर्व मण्टपविधानकथनं नाम
पञ्चत्रिंशष्षत्रिंशोऽध्यायश्च ॥ भूपहर्म्यस्य वायव्यामैशान्यां वा विशेषतः । कुलदेवालयः स्थाप्यो जयसन्तानसिद्धये ॥ १ ॥ विशद्दण्डकमारम्य द्विद्विदण्डविवर्धनात् । पञ्चाशद्दण्ड कान्तं तत्प्रमाणं मुनिभाषितम् ॥ २॥
॥ पञ्चत्रिंशपत्रिंशाध्यायो । अथ चक्रवर्त्यादिक्षत्रियभवनेषु कल्पनीयकुलदेवालयलक्षणं, तस्य तु पुरोभागे कल्पनीय पूर्वमण्टपविधानक्रमञ्चोपपादयति पश्चत्रिंशत्पत्रिंशदात्मकेनाध्यायद्वयेन । तत्र भूपालादीनां क्षत्रियाणां हर्यस्य सदनस्य भवनस्य वायव्यां दिइयथवैशान्यां तेषां कुलदेवतालयं प्रकल्पयेदित्युपदेशः । तथा तन्निमणि फलन्तु तेषां भूपाल कुटुम्बानां विजयारोग्यसत्सुतसम्पत्प्रवृद्विरिति भावः । तञ्च लोके स्पष्टमेवेत्यर्थः ॥ १ ॥
____ अथ एतादृशशुभफलदातुः तद्देवालयस्य किया प्रमाणम? कथं वा कल्पनादिकम ? इति चेत्तद्विवृणोति-विशद्दण्डकमित्यादिना । विशद्दण्डकादिपञ्चाशद्दण्डकान्तं द्विद्विसंख्यावर्धनयुक्तं यथे, यथास्थललाभमायामदैर्घ्यप्रमाणयुतं स्वीकृत्य तदनुगुणं नृपदेवालयं शिल्पी निर्मापयेदित्युपदेशः । तत्प्रमाणस्थलाहिरेव