SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ ४४३ रेखारूपं मीनरूपं लतारूपश्च तक्षयेत् । भूर्जपत्रक्षेपणं वा नानाङ्गणसमन्वितम् ॥ ९॥ वानरक्रीडनं वापि तक्षयेत्सुमनोहरम् । कचिदष्टमुखोपेतं तटाकं बहुपक्तिकम् । स्थापयेन्नृपतिर्देशे प्राणिनां सुखदायकम् ॥ १० ॥ इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे तटाकलक्षणकथनं नाम चतुस्त्रिशोऽध्यायः ॥ चित्ररचनाप्रकारमाह-रेखारूपमित्यादिना। तत्र तत्र सोपाने मुखभागेषु पार्श्वेषु दृश्यस्थलेषु चूनपत्रादिरेखारूपं वा सकुटुम्बमीनरूपं वा भूर्जपत्रादिरूपं वा शिखरटकादिना क्षेपणं प्रकल्प्य मध्ये मध्येऽङ्गणविभागञ्च रचयित्वा कचिद्वानरकुटुम्बखेलनरूपं च क्षेपणं सुमनोहरमन्यचित्रं गन्धर्व किन्नरयुगलादि स्थलकेलीव्यग्रं प्रकल्पयेदिति भावः । इति सङ्कपेण तटाकनिर्माणप्रकार उपपादितः ॥ इति श्रीमदनन्तकृष्णभट्टारकविरचितायां प्रमाणबोधिन्याख्यायां विश्वकर्मवास्तुशास्त्रव्याख्यायां तटाकलक्षणकथनं नाम चतुर्विंशोऽध्यायः॥
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy