________________
४४७
ब्राह्मणांस्तोषयेद्गोभूहिरण्याद्यैर्यथाक्रमम् ।। ८ ।। अष्टोत्तराहुती त्वा शान्तिश्च जुहुयात्ततः । तारोत्सवादिभिर्देवीं नैवेद्यैर्विविधैरापि ॥ ९ ॥ प्राणयेन्नृपतिः पश्चात्पूर्वमण्टपकल्पनम् । चतुष्पादयुतं प्रायश्चाष्टपादसमन्वितम् ॥ १० ॥ तदुपस्तम्भसहितं साधिष्टानं सपीठकम् ।
तस्मिन् शुभसमये गोभूहिरण्यवस्त्राद्यनेकदानः श्रोत्रियान् वेदपारगान् कुटुम्बिनो ब्राह्मणोत्तमांश्च तोपयित्वाऽभ्यर्च्य ततस्तस्याः खगवेदिकायाः पूर्वभागे स्थापिते अग्निकुण्डपञ्चके ऽष्टोत्तरशतं शान्त्याहुतीर्तुत्वा गुरुदेवविप्रपूजानन्तरं प्रतिमासं स्वस्य जन्मनक्षत्रे वा कुलदेवतायाः मासगतनक्षत्रे वा विशेषाभ्यचननैवेद्यादिना प्रीणयित्वा सावरोध जनो मङ्गलं वाचयित्वा तादृशखगवेदिकायास्तस्य च देवालयस्य पुरोभागे देवालयपूर्व मण्टपकल्पनं रचयेदिति लक्षणवाक्यार्थः ।
तदेव पूर्व मण्ट पकल्पनविधानं विशिनष्टि-चतुःपादमित्यादिना । तच्च पूर्वमण्टपकल्पनं भूमिलम्बनपूर्वकं दृढं मध्यमाधिष्ठानं विरचय्य तदेवोत्सवोचितकल्पनभासुरं चतुःस्तम्भयुतमष्टस्तम्भयुतं वा स्थापयेत् । किश्चात्र मण्टपे तादृशस्तम्भानामुपस्तम्भाख्यकल्पनमतिमनोहरचित्रं कारयेत् ॥