________________
४३६
चतुर्विंशत्यङ्गुलेन विहीनं नेष्यते बुधैः ॥ ८ ॥
घटीयन्त्रस्थलं तीरे रचयेत्साङ्गणं बुधः । अवगाहतलोपेतद्वार किन्नररूपकम् ।
वकरीत्या दृढीकृत्य सुधादिनाऽनुलेप्य, निर्माणं परिपूरयेदिति
क्रमः ॥
एवं वर्तुलरूपवापीकूपादौ वक्ररीत्या सोपानस्थापनक्रमः कथितः । सूत्ररीत्या सोपानपङ्क्तिस्थापनं यथा - सूत्ररीतिर्नाम एक हस्तद्विहस्तायामवतीं क्रमशोऽघोऽधः स्थापितां सोपानपङ्क्ति रचयेदित्यर्थः । एवं सूत्ररीत्या सोपानकरणे यथेच्छं चतुर्षु वा दिग्भागेषु, भागद्वये वा, एकस्मिन्वा भागे तत्सोपाननिर्माणं प्रकल्पयेदिति च भावः ॥
,
अपि चतात्रता प्रन्थेन महाप्रमाणवती दीर्घिका, तन्न्यूनप्रमाणोपेता वापी, तन्न्यूनप्रमाणयुतः कूपः इति समलक्षणबन्धनक्रमः कथित इति शिल्पिभिरवधार्यः । तस्मात्सर्वत्रैतादृशकूपस्य वा वाप्याः दीर्घिकायाश्च तीरभूमौ अगाधमवटं खात्वा तस्मिन्घटीयन्त्र स्थापयेत् । घटीयन्त्रणस्थापनप्रयोजनं तु स्पष्टमेव । सति विभवे एवं स्थापितस्य घटीयन्त्रणस्य समीपे समभूभागे श्वाप्यादीन्परितः सस्तम्भरचनसङ्गणकल्पन कार्यम् ॥
किचान वाप्यादिषु स्थापिताङ्गणस्तम्भादिषु किन्नर