________________
४२.६
मध्यभागे लतारूपं सगुच्छं सममेदुरम् ।। १८ ।। मौलिभागे कुम्भगुच्छसरोजमुकुलान्वितम् । तिर्यक्पट्टिकयुग्मेषु मध्ये वा पार्श्वयोस्तथा ॥ १९ ॥ शतपत्रं पङ्कजं वा हंसाकृतिरथापि वा । युक्त्या मनोहरं स्थाप्यं सौवर्ण राजतं तु वा ॥ २० ॥ द्वारपट्टिकभागेषु किङ्किणीरेखिका मताः ।
प्रकल्पयेत् । तस्य द्वारद्वयस्य मध्यभागे विविधलतारूपं सगुच्छकुसुमफलादिचित्रतक्षणक्षेपणादि च कारयेत् ॥
किञ्च तम्य द्वारयुगलस्य मौलिसमीपे कुम्भरूपं वा गुच्छरूपं सरोजादिमुकुलरूपं वा चित्रं लम्बयेत । एतादृशचित्ररचनादिकं तु द्वारद्वयस्योभयोरपि पावयोर्मुखशिलापट्टिकायां करणीयमिति भावः । किञ्च तत्पद्वययोः क्षुद्रकिङ्किणीकादिरूपं वा शुकशारिकापत्रादिरूपं वा बहुरेखारूपं वा प्रकल्पयेत् ।।
किश्तादृशद्वारद्वयस्याधः उपरि च स्थितयोस्तिर्यकपट्टिकयोमध्यभागे पङ्कजादिरूपं वा तक्षणीयम् । अथवोभयोरपि पक्षयोर्भागत्रयेऽपि वेति च विकल्पो बोध्यः। एवं द्वाराध:पट्टिकायां तिर्यकृतायां पद्माकृति वा हंसाकृति वा युक्त्या मनोहररूपं तक्षयित्वा तत्स्थलं सौवर्णराजतादिपट्टेन कवचीकुर्यात् । अत्यत्कल्पनं पूर्वोक्तमेव ॥