________________
४२५
मध्याङ्गणद्वययुतं देहली वेदिकायुतम् । तत्र सोपानपङ्क्ति चित्रं वा बहुरूपकम् ॥ १७ ॥ अधोभागे द्वारयुग्मं किन्नरीयुग्मभासुरम् ।
पूर्वापरयोर्भागयोः स्थापिते द्वारयुगलेऽपि मुखभद्ररेखां वा शतकिङ्किणीकं वाऽनेकचित्ररचनं प्रकल्प्य तन्मध्ये महतीं देहलीं स्रवेदिकां साधारणस्तम्भा प्रकल्प्य तदारभ्यैवोपरिस्थित भौमतलारोहणाई सोपानकल्पनं निर्मापयेत् । किश्वेतादृशालिन्दस्योपरिभागे तिर्यमूपात्र रणशिलापट्टिकामध्ये कमलक्षणं विधाय तन्मध्ये दीप शृङ्खला योजनं च दृढं बन्धयेत् । इदमेव लक्षणं ranaकल्पनेsपि योजनीयमिति भावः ॥
अनयैव रीत्या गोपुरेषु प्रतितलं चतसृष्वपि दिक्षु दीपस्थापनस्थलं च स्थापयेत् । अब तु प्रन्थकर्त्रा विश्वकर्मणा पावाली, शूरसेनी, कोसलीं, वाङ्गीमेत्र शैली मनसि निधाय नवभूमिकमेव गोपुरं निर्मापणीयमित्युक्तम् ! द्राविड्यादिशैल्यन्तरेषु मानसारादिषु प्रतिपादितरीत्या द्वादशतल निर्माणस्यापि स्फुरणात् स्थपतिप्रमुखास्तदनुगुणं दृढाधिष्ठानानि कल्पयित्वा प्रायश इदमेव लक्षणजालं तत्रापि स्थापयेयुरिति
भावः ||
तस्मान्नवभौमगोपुरस्य सप्तभौमगोपुरस्य च द्वारद्वयेऽधः प्रथमभागे एकदण्डोन्नतिकं किन्नरीमिथुनं सलक्षणं समरेखं 8. 8. 54