________________
४२४
बहुतोरणसंयुक्तं तलदेवादिभूषितम् । तलस्तम्भयुतं वापि कल्पयेत्पञ्चभूमिकम् ॥ १४ ॥ गोपुरं शिल्पवित्प्राज्ञो यथाशोभं यथावलम् ।
इति पञ्चभौमगोपुरलक्षणम् ॥ अथ सप्तमीमनवभौमगोपुरलक्षणम् ।। तदेवात्युनततलं वैशाल्यादिसमन्वितम् ॥ १५ ॥ अलिन्दस्तम्भसंयुक्तं तलस्तम्भैश्च धारितम् । द्वारद्वयं द्वारपट्टद्वयेन परिशोभितम् ॥ १६ ॥
मुखभागे, राजभवनमुख द्वारे, प्रामोत्तमानां मुखद्वारे स्थापनीयमिति भावः ॥
किञ्चैतादृशं पश्चभौमगोपुराधिष्ठानादिप्रमाणापेक्षयाऽधिक मानसहितं कल्पनं विरचय्य सप्ततलकल्पनश्च यदि स्थापितं तस्य सप्ततलगोपुरमिति नाम व्यवहियत इति भावः । किञ्चास्य तु सप्ततलगोपुरस्य प्रतितलं पूर्वाङ्गणे स्तम्भद्वयकल्पनं कचित् दृढार्थ कल्पनीयमिति च भावः । इयश्च द्राविडी शैलीति चोदितम् । मागधशैल्यामपि कोसलशूरसेन पाम्बालादिशैलीषु नैतद्योजनीयम् ।
परन्तु तत्र तत्र तलाङ्गणप्रकारश्च प्रकारान्तरेण मात्या तन्मध्ये कम्पवाजनकर्णगलनेत्रादिकं तत्तच्छेल्यनिततक्षणक्षेषणचित्रकरणञ्च रच येदित्यादिभेदश्वोह्य एव । किन्नात्र सप्तवलगोपुरे