________________
४२३
अथ पञ्चभौमगोपुरलक्षणम् ॥ समापान चतुर्थादिभौमकल्पनशाभितम् ॥ १० ॥ बृहत्तलमुखोपेतं पञ्चभिश्शिखरैर्युतम् । मध्याधिष्ठानसंयुक्तमग्रपट्टादिभूषितम् ॥ ११ ॥ अलिन्दद्वयभाग्यान्तं सपादं वा विपादकम् । देवीनां भवनद्वारे देवानां च पुरामपि ॥ १२ ॥ भूपालभवनद्वारे दुर्गाणां च मुखस्थले । ग्रामाणां च मुखद्वारे कल्पनीयं विशेषतः ॥ १३ ॥
एवं पञ्चभौमसहितस्य गोपुरस्य कल्पनं तु क्रमेण विभौमगोपुराधिष्ठानादिप्रमाणापेक्षया किचिदौन्नत्य सहित कल्पनं सर्वत्र कारयेन । प्रतिभौमतलारोहणार्थ सोपानपरम्परा च युक्त्या तलमध्ये कार्या। किश्चात्र पञ्चतलगोपुरे द्वारद्वयमत्युन्नतं, तन्मध्ये समहावेदिकं सस्तम्भमलिन्द द्वयं दीर्घालणं प्रकल्प्य गोपुरतलभागेषु प्रतितलं मध्ये मध्ये नानाङ्गणं सचित्रं सझालं विरचय्य तन्मध्ये तत्र तत्र क्षुद्रशिखरपञ्चककल्पनं च संयोजनीयम् । एतादृशमुपरिशिखरतले पश्चशिखरैरुद्भासितं पश्चतलगोपुरं तु कचिवालयस्य पुरतः, गौरीलक्ष्म्यादीनां लोकजननीनामालयस्य पुरोभागे, सर्वतोभद्रादिनगरोत्तमानां नगरमुखद्वारे, दुर्गाणां