________________
४२२
अथ त्रिभौमगोपुरलक्षणम् ॥ साधिष्ठानस्तम्भयुतं तदेवोन्नतकायकम् ॥ ७ ॥ वेदिको परिजालाढ्यं शिखरत्रय भासुरम् । त्रितलेन समायुक्तं कर्णनासादिमण्डितम् ॥ ८ ॥ त्रितलं गोपुरं प्रोक्तं शिल्पविद्भिः पुरातनैः । ग्रामे देवालये स्थाप्यं ग्रामद्वारे विशेषतः ॥ ९ ॥
मठमण्टपमुख्यस्य कल्पनस्य पुरःस्थले । इति त्रिभौमगापुरलक्षणम् ॥
किन सकलविधगोपुरद्वारवैशाल्यौन्नत्यादिप्रमाणं तु पूर्वव्याख्याने एतच्छाखेकादशाध्याये द्रष्टव्यम् । एवं त्रिभौमसहितस्य गोपुरस्य तु मध्यमाधिष्ठानसहितं मध्यभागेऽलिन्दकल्पनं समद्दावेदिकं विरचय्य तदलिन्दवेदिको परिद्वारोपर्याच्छादनपटलधारणाधारभूतं स्तम्भद्वयं वा प्रतिपार्श्व प्रकल्प्य तदुपरि पूर्वोक्तरीत्या एकतलगोपुरौन्नत्यापेक्षया किञ्चिदद्धिकौन्नत्यभागेव प्रतितलकल्पनं कृत्वा शिखरत्रयं च स्थापयेत् ॥
किश्वेतादृशचित्रतलगोपुरस्य तले तले चतुर्ष्वपि दिकोणेषु दिमध्यस्थानेषु वा चतुरङ्गणं कृत्वा तन्मध्ये कर्णनासाख्यं चित्रं तु सुधेष्टिकादिभिः प्रकल्पयेत् । इदं तु गोपुरकल्पनं मठादेः पुरोभागे मण्टपस्य च पुरःस्थले मुख्यकल्पनस्य पुरतःस्थले च कल्पनीयमिति भावः ॥