________________
४२१
मुखे मध्ये पृष्ठतले तक्षणं वाऽधितक्षणम् ॥ ५ ॥ रेखादिभिः समायुक्तमथवा बहुचित्रकम् । मध्यालिन्दसमोपेतमथवाऽङ्गुलहीनकम् ।। ६ ।। एकभौमयुतं कार्य क्वचिद्गामादिपु स्थिरम् ।
इत्येकभीमगोपुरलक्षणम् ॥
भूमिलम्बकरणानन्तरं राजवीथ्यादिमार्गप्रमाणात किश्चिदुत्तुङ्गस्थलं निर्देष्टुं गोपुरनिर्माणाय निश्चित्य दृढीकृत्य तत्स्थले दृढशिलापटलैरधिष्ठानं पार्श्वयो। प्रकल्प्य मध्यभागे शिलामयमेवोत्तुङ्गायामं मुखद्वारं स्थापयित्वा तदनन्तरस्थलेऽलिन्दप्रकल्पनं विनैव मामेषु क्षुद्रग्रामेषु प्रामदेवालये चैक भौमयुतं गोपुरं स्थापयेदित्युपदेशः ॥
त्रितलपतलादिगोपुरकल्पने तु तादृशमुखद्वारकरणानन्तरमलिन्दकल्पनं सवेदिकं स्थापनीयम । महागोपुरकल्पनेषु द्वारद्वयमलिन्दद्वयं च प्रकल्पनीयमिति क्रमः । अयश्च विषयोऽवैवाध्यायव्याख्याने नवभौमगोपुरविधाने स्पष्टीभविष्यति । किन, एकतलसहितग्रामगोपुरद्वारे दृढार्गलकवाटमुभयोः पार्श्वयोः कल्पनीयरचनादिकश्च स्वयमेवोह्य शिल्पी कतिपयचित्रोपेतं स्थापयेदिति क्रमः । एवं क्षुद्राधिष्ठानक्षुद्रद्वारप्रमाणमेकभीमगोपुरस्म प्रतिपादितम् ॥