________________
५२०
भूतलं भूमिलम्बश्च भूनिर्माणं समाचरेत् ।
गोपुरकल्पनाय प्रथमत एत्र भागवयं विभज्य तत्र प्रथमभागे अधिष्ठानोपपीठादिकल्पनं, तदुपरि द्वितीयभागे द्वारपार्श्वशिलास्थापनास्यप्रस्तरकल्पनं, तदुपरि गोपुरद्वारोपरिभागालछादनरूपं दृढशिलामयावरणपटलं नीरन्धं यथाशीभचित्रं स्थापयित्वा, तदुपरि तृतीयभागे गोपुरतलाधिष्ठानास्यकल्पननिर्माणं व सुधेष्टिकादिभिः प्रकल्पयेदिति क्रमा
एवं सकलविधदेवालयगोपुरस्थापने कचिद्राजभवनगोपुरस्थापने दुर्गमुग्वद्वारोपरिस्थापनीयगोपुरकल्पने च भूमिलम्बनानन्तरं मेदिनीतलशिलाप्रभृतिगोपुरद्वारोपरिभागाच्छादनावधिक कल्पनं नियमेन दृढमसृणशिलावलिभिरेव कार्यम । कुतः ? चिरकालम्धितये । तदुपरि तादृशगोपुरोपर्यावरणतलात्प्रभृति शिखरम्थूपिपर्यन्तं सुधेष्टिकामयादिभिस्तलनिर्माणं करणीयमिति क्रमश्च शिल्पिभिरवश्यं यः ।।
एवमत्रोक्तभागवये शिलामयाधिष्ठानोपपीठद्वारपाच्छाक्नस्थामेषु नानाङ्गणं सचित्रं सर्वालङ्कारशोभितं नयनामनकर समसूत्रं विषमशिलानिनोन्नतत्व वृद्धिहीनत्वादिदोषरहितं यथाप्रमाणं निष्पम्दशिलासन्धिकं स्थापयेविति लक्षणवाक्यार्थः ॥
तदेव क्रमशों विशदयति - भूतलमित्यादिना !