________________
४१९
कल्पनावर्गमानं वा गोपुरारम्भकर्मणि ॥ ३ ॥ निश्चित्य मतिमान्छिल्पी भूमिलम्बनमाचरेत् । त्रिभागमादिमध्यान्तं विभज्यायाममानितम् ॥ ४ ॥
एवास्मिन्स्थलेऽस्माभिः पश्चतलगोपुरं निर्मापणीयं, सप्ततलगोपुर निर्मापणीयमिति पूर्वमेव तद्गोपुरस्थलोन्नत्यवैशाल्यप्रमाणादिकं यथाविभवं सम्यानादिना निश्चित्य तदनुगुणं भूमिलम्बनमनुष्ठानकल्पनं च स्थापनीयमित्यर्थः ।।
एवमनुलोमप्रतिलोमाख्येन प्रकारद्वयेन गोपुरनिर्माणस्थापनक्रमः कथितः । तृतीयः प्रकारो यथा- प्रामनगरादिषु तत्र तत्र दण्डादिना विभज्य स्थापिताया महावीथीराजवीथीप्रमुखायाः वैशाल्यानुगुणं स्थपतितक्षकादयो गोपुरकल्पनं सम्यनिश्चित्य तदनुगुणोन्नत्योपेतं, यथाशोभं, यथाबलं चानेकतलसहितं गोपुरकल्पनं प्रकल्पयेदिति क्रमः ॥
चतुर्थप्रकारो यथा- तत्र तत्र ग्रामे नगरे वा शिबस्य विष्णोर्वाऽऽयतनं यावदैर्ध्यवैशाल्योपेतं विविधशालामण्टप. तटाकादिसहितं कल्पितम, तत्कल्पनानुगुण मौनत्यभाग्गोपुरं प्रकल्पयेदिति ॥
एवं स्थपतितक्षकभूपालादयो गोपुरकल्पनं चतुर्विधप्रकारेण निश्चित्य भूमिलम्बाधिष्ठानकल्पनादि दृढं प्रकल्प्य