________________
४१८
शैलीमानं तु संयोज्यमिह स्थपतिभिर्मतम् ॥ २ ॥ अनुलोमादिमान वा मार्गविस्तारमानकम् ।
एवमेतादृशस्थले गोपुरस्थापने पूर्वोक्ताष्टविधशैलीषु पाञ्चालीशैल्याः प्रमाणरचना वा मागधीशैल्या प्रमाणरचनादिकमथवाऽभिमतशैलीकल्सनप्रमाणकं वा तत्तद्देशीयशैली वाऽऽहोस्वि. सङ्कीर्णशैलीनिर्माणं वा भूपतिस्थपतिप्रमुखानामिच्छानुगुणं स्थापयेदिति क्रमः॥
किश्चैतादृशगोपुरनिर्माणारम्भसमयेऽयं च विषयः शिल्पिभिरवश्यं निर्णतव्यः । कोऽसौ विषयः ? उच्यते-- साधिष्ठानन्यानेकतलमाहितस्यास्य गोपुरनिर्माणस्याधःप्रदेशे कियद्वा प्रमाणं भूमिलम्बनं (mL STir) कार्यमिति चेत्तत्रैवं चतुर्विधनमः ॥
आद्यः प्रकारो यथा - चतुर्दण्डाधिकमानमगाधं भूमिलम्बनं विरचय्य, तदुपर्यनुगुणप्रमाणमधिष्ठानं कल्पयित्वा तादृशभूमिलम्बाधिष्ठानकल्पनयोस्तदधिष्ठानोन्नत्यानुगुणं त्रितलगोपुरं वा, स्थिरकल्पनोपेतं पञ्चतलगोपुरं वा, सप्ततलगोपुरं वा नवतलगोपुरं वा स्थिरकल्पनोपेतं स्थापनीयमित्यर्थः । अयमायोऽनुलोमप्रकार इति भावः ॥ . .
द्वितीयः प्रतिलोमप्रकारो . यथा - गोपुरारम्भसमय