________________
४३७
कल्पनं देवमूर्तीनामथवा संप्रयोजयेत् ।। ९ ॥ इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्र
वापीलक्षणकथनं नाम সাহা:।
मिथुनादिमनोहरचित्ररचना प्रकल्प्या । कचिद्वरुणदेवादिपुण्यदर्शनदेवानां बिम्बस्थापनं चाभिप्रेतम । कल्पनान्तरलक्षणान्तराणि तु शिल्पिभिः स्वयमेवोह्य स्थलविभवानुकूलमातिदृढं कश्मलजल. मेलनादिरहितं चिरकालस्थितये मनोहरचित्ररचनाप्रमाणयुतं च वापीकूपादिकल्पनं निर्मापणीयमित्युपदेशः ॥
इति श्रीमदनन्तकृष्णभट्टारकविरचितायां प्रमाणबोधिन्याख्यायां
विश्वकर्मवास्तुशास्त्रव्याख्यायां वापीकृपलक्षणकथनं नाम ॥ त्रयस्त्रिंशोऽध्यायः ॥