________________
४१२
अष्टादशाङ्गुलं वाऽपि द्वादशाङ्गुलमेव वा । कचित् षडङ्गुलं वापि कल्पयेत्पादुकाख्यकम् ॥१०॥ तलस्थमधिष्ठानं विविधं परिकीर्तितम् । शुद्धां शैली च संकीर्णामथवाऽत्र प्रयोजयेत् ॥ ११ ॥ मार्धाधकद्विद्विदण्डदण्डाधं पादमानकम् । मोपानं पद्मकं वाऽपि शोभार्थं परिकल्पयेत् ॥ १२॥ द्विगुणं त्रिगुणं वाऽपि पश्चांशं वा चतुर्गुणम् । विभज्योपानकस्यो क्षेपणं कम्पपद्मकम् ॥ १३ ॥
कृतं खलु। तदुपरि इदमधिष्ठानकल्पनं कार्यम् । तत्रोत्तमा कल्पनस्याधःस्थापनीयस्येतस्याधिष्ठानस्यारम्भस्थले अष्टादशाकुलोन्नत्यभागादिपट्टिका स्थापनीया । मध्यमकल्पना. धिष्ठानस्यारम्भस्थले द्वादशाङ्गुलौनत्यभापट्टिका कार्या । अधमकल्पनाधिष्ठानस्यारम्भस्थले षडङ्गुलोन्नत्यवती पट्टिकेत्येवं क्रमेण तत्तत्कल्पनस्थलानुगुणं आदिपट्टिकारचनाप्रमाणमुक्तं बोध्यम ॥
अस्या एव पट्टिकाया भूमिमेंदिनी क्षमा धरेत्यादीनि नामान्तराणि ज्ञेयानि । एतादृशादिपट्टिकायाः पार्श्वभागे सोपानाख्यं चित्रविशेषमथवा नानाङ्गणं विरचय्य तन्मध्ये पङ्कजकुमुदादिरूपं चित्रं वा प्रकल्पयेदित्यर्थः ।।