________________
४११
मञ्चभद्रं बोविभद्रं वाजिभद्रं च कौमुदम् । बन्धस्वरूपमन्यच्च स्थापयेत्स्थपतिः क्रमात् ॥ ७ ॥
शिलाभिरिष्टिकाभिर्वा देवमानुषकल्पनम् । स्थापयेद्भारवहनाम भिन्नं न च वक्रितम् ॥ ८ ॥
भूमिरादौ रसा प्रोक्ता त्रिषट्टा केवला मता । उत्तमे कल्पने हस्तप्रमाणं योजयेद्बुधः || ९ ||
भवनादिष्वपि न शिलामयकल्पनं कार्यम् । परन्तु कचित् उपान्ते स्तम्भानामधोभागे चत्वर प्रदेशान्ते जलप्रणाल्याः पीठादिषु च पृथगेव शिलापटली स्थाप्या | न तत्रादि शिलामयकल्पनं जनानां शुभावहमिति । तस्मादयमेव प्रकार सतां च सम्मत इति वदामः ॥
एतादृशाधिष्ठानं तावदष्टविधं भवति । यथा
१.
मनभद्रक्रमः ।
२.
बोधिभद्रक्रमः ।
३. वाजिभद्रक्रमः ।
५.
६.
७.
मबन्धक्रमः ।
बोधबन्धक्रमः ।
वाजिबन्धक्रमः ।
८.
कुमुदबन्धक्रमः ।
४. कुमुद भद्रक्रमः । इति । अत्रैव विविधान्तरं बहुविधं भवतीत्याशयश्च बोध्यः || एतादृशाधिष्ठानाष्टकस्य पार्श्वभागेषु क्षेपणीयलक्षणक्रममाह -
भूमिरादाविति । पूर्वोक्तभूमि लम्बनकरणानन्तरं समभूभागकल्पनं