________________
गजपादैर्मुद्गरैश्च काष्ठम्वण्डैपनीकृतम् । परितो भागमानेन विभजेत्कल्पनोचितम् ॥ ६ ॥
कल्पनेषु शिलाखण्डैर्वालुकायेस्तमवटं ससलिलं पूरयित्वा दृढीकृत्य, तत्सलिलं बहियपोह्य, कालक्रमेण दृढीकृत्य, भूमिलम्बवस्योपरिभागेऽधिष्ठानमिदं स्थापयदिति क्रमः ॥ ५ ॥
तथा कल्पितस्यास्याधिष्ठानकल्पनस्य खरमृत्तिकादिभिः सूक्ष्ममृत्तिकादिभिर्वा पूरयित्वा गजपादेर्गज पादाकारढीकरणयन्त्रविशेषैः कचिच्छिलामयमुद्रः कचिदूर्ध्वभौमादिस्थलेषु दृढकाष्ठखण्डादिभिस्सन्ताज्य, दृढीकृत्य, घनीकृत्य, कल्पितस्यैतस्याधिष्ठानस्य पार्श्वभागेषु चतुर्वपि तत्तत्कल्पनानुगुणं सोपानादि- . विभजनं च प्रकल्पयेत् ॥
किश्च सर्वेष्वपि देवालयकल्पनेषु शिलामयमेवाधिष्ठानं कल्पनीयम् । न्यायशालानाटकशालाचित्रशालादिमेषु, कचिद्राजभवने मुख्यप्रासादधनशालायुधशालादिषु शालान्तरेष्वपि शिलामयमधिष्ठान स्थापयित्वा तदुपरि सुधेष्टिकादारुखण्डाविभिरेव निर्माण कार्यम् । सर्वथा नेतरत्र मानवसदनेषु शिलामयाधिष्ठानकल्पनमुचितमिति भावः ॥
___ मन केषाश्चिच्छास्त्रकाराणामाशयो यथा-देवालयनिर्माणवेष मिकामयकल्पनमुचितम् । सार्वभौमराजभवनेविसर