________________
४१३
द्विपादं पद्मकं कम्पमेकांशे वा विशेषतः । षड्भागं कर्णविस्तार मम्बुजं चाष्टभागकम् ॥ १४ ॥ क्षेपणं चार्धभागेन युक्त्या तत्र प्रयोजयेत् । अलिन्दान्तरितं ह्यंशं तदर्धं वा तदर्धकम् ।। १५ ।। वाजनं कर्णविस्तारं समं वाऽधिकमानकम् । त्रिभागेन युतं कम्पं कपोतं प्रतिवाजनम् ॥ १६ ॥ भागद्वयेन पद्मं तु वाजनं चार्ध भागिकम् । बाह्यवाजनमेकेन कम्पं पद्मं गलं तु वा ॥ १७ ॥
किताशादिपट्टिकाया उपरि तद्गलान्तकं कल्पितं स्थलं अष्टत्रिंशद्भागेन विरचय्य तस्या मेदिनीपट्टिकाया उपरि द्विभागेन पद्मरचना मेकभागेन कम्परचनां तयेदित्यर्थः । एवं तश्य कम्पस्योपरि षड्भागेन तलकर्णमष्टभागेनाम्बुजं तदुपर्यर्धभागेन क्षेपणं, सार्धद्वयेन भागेनालिन्दमन्तरितं विभागेन वाजनं, त्रिभागेन वा किचिदधिकप्रमाणेन वा कर्णविस्तारं प्रकल्प्य तदुपरि भागत्रयेण कम्पं तदुपरि भागत्रयेण कपोतं, तदुपरि भागत्त्रयेण प्रतिवाजनं, तदुपरि भागद्वयेन पद्ममर्धभागेन बाजनं, तदुपर्येकेन भागेन बाह्यवाजनं, तदुपर्येक्रेन भागेन कम्पं वा पद्म वा गळच क्षेपयेदित्यर्थः ॥
एवमत्र प्रतिपादितानि पद्मकम्पकर्णाम्बुजान्तरितकर्ण
,