________________
४०८
गर्भगेहस्य च तथा देवानामालयस्य च । विविधानां कल्पनानामधोऽधिष्ठानकल्पनम् ॥ २ ॥ औनत्यार्थ च रक्षार्थ शोभार्थं च बलार्थकम् ।
एकहस्तं द्विहस्तं वा त्रिहस्तं वा विशेषतः ॥ ३॥ स्थापयेदित्युपदेशः । किश्च देवालयगर्भगेहस्य देव्यादीनामालयस्याधिष्ठान स्थापयेत् ॥
तथा च देवालयकल्पनीयानां पूर्वमण्ट पाभिषेकमण्टपविहारमण्ट पवाहनमण्टपकृत्तिकामण्ट पवसन्तमण्ट पगर्भगृहबलिपीठध्वजस्तम्भगोपुरद्वाराणां, भूपालादिसकलमानवभव नादिषु, राजभवनेषु , धनिकभवनेषु कल्पनीयानां कचिन्नप्तशालानाटकशालावैद्य शाला पाठशालान्यायशालादीनां, मठमण्ट पान्नशालादीनामन्येषां बहुविधानां कल्पनानामपि अधोभागे तत्तत्कल्पनानुगुणं तत्तत्स्थलानुगुणमिदमधिष्ठानं प्रकल्पयदिति पिण्डितार्थः ।।
तश्चाधिष्ठानं त्रिविधं भवति उत्तमाधिष्ठान, मध्यमाधिष्ठानमधमाधिष्ठानमिति भेदादिति भावोऽत्र मूलकारवचनशैल्या प्रतीयते । काश्यपमानमारादिप्रन्थान्तरेव धिष्ठानकथनप्रकरणे चतुश्चत्वारिंशद्भागप्रमाणकथनेन कचिहाविंशद्भागप्रमाणस्य , कचिञ्चतुर्विशतिभागप्रमाणस्य च प्रतिपादनादधिष्ठानकल्पनस्योत्तममध्यमाधमानां स्पष्टीकरणात् अत्रापि तत्सूचने सुलभक्रमो बोध्यः॥