________________
अथाधिष्ठानलक्षणनिरूपणं नाम
सप्तविंशोऽध्यायः ॥
प्रासादानां मण्टपानां शालानां च क्वचित्स्थले । गोपुराणां कचिद्धौमे गोपुरद्वारकस्य च ॥ १ ॥
॥ सप्तविंशोऽध्यायः ॥
पूर्वोक्तद्वादशाध्याये प्रासाद भूमानकथनप्रकरणे प्रतिपादितानां सविधानां पाञ्चाल्यादिशैलीनां निदानभूनमधिष्ठानलक्षण मस्मिन् सप्तविंशाध्याये विशिनष्टि - प्रासादानामित्यादिना । अत्र तु कोऽपि क्रमो बोध्यः । यथा -- तत्र तत्र मुख्यकल्पनस्याधोभागेषु कल्पनीयस्याधिष्ठाननिर्माणस्य स्तम्भानामधः प्रदेशे कल्पनीयस्योपपीठ निर्माणस्य च कियानेव रचनाविशेषभेदः । तस्मात्तयोर्द्वयोर्लक्षणं शिल्पशास्त्रकाराः प्रायश एकस्मिन्नेवाध्याये प्रतिपादयामासुः । अत्र तु विश्वकर्मवास्तुशास्त्रे सप्तविंशाध्यायेऽधिष्ठानलक्षण कथनं, सप्तसप्ततितमाध्याये उपपीठलक्षणकथनं तु शास्त्रकारस्यैच्छिकं
प्रकरणानुकूलमिति च पश्यामः ॥
तस्मात्कस्मिन्त्रा निर्माणेऽधिष्ठानाख्यं कल्पनमित्याकाङ्क्षायां तदर्हस्थलानां नाम क्रमशो निर्दिशति - प्रासादानामित्यादिना ।
विविधमण्टपानां,
बहुविधानां क्वचिद्गोपुरद्वारभागस्याधः प्रदेशे अधिष्ठानं
भूपालवासार्ह प्रासादानां
विविधशालानां,