________________
लक्ष्म्यादिरूपमथवा गोपुरादिस्थलाकृति । कल्पनं विविधं रम्यं नानातोरणमीरितम् ॥ ८॥ इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्र
तोरणलक्षणनिरूपणं नाम पतिशोऽध्यायः ॥
भागादिषु यक्षकिन्नरगन्धर्वविद्याधरमिथुनरूपं कचित्पुण्याश्रमनदीप्रसवणगिरिवनादिस्वरूपं च यथाभिरुचि तत्र तत्र प्रकल्पयेदिति लनगवाक्यार्थः । रक्तपीतशुक्लादिवर्णजालैः करणीयचित्रकार्येष्वपि इदमेव तोरणकल्पनं तत्तच्चित्राञ्चलभागेषु स्थापयेदिति शिल्पसमयः । एवं शिलामय दारुमयसुधेष्टकालाहमयादिषु तोरणस्वरूप लक्षणं संक्षेपणोक्तं ज्ञेयम् ॥ ८ ॥
इति श्रीमदनन्तकृष्णभट्टार कविरचितायां प्रमाणबोधिन्याख्यायां
विश्वकर्मवास्तुशास्त्रव्यार यायां तोरणलक्षणनिरूपणं नाम
षड़विंशोऽध्यायः ॥