SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ अथ तोरणलक्षणकथनं नाम षड्विंशोऽध्यायः ॥ तोरणं त्रिविधं कार्यं शिलादारुसुधादिभिः । दैवं भौपं मानुषञ्च तक्षणादिप्रमाणतः ।। १ ।। तत्तत्कार्येषु तद्योज्यं प्रमाणज्ञैः क्रियाकरैः । षडविंशोऽध्यायः अथास्मिन् षडविंशाध्याये तोरणलक्षणं विशिनष्टि - तोरणमित्यादिना । पूर्वाध्याये प्राथमिकादिद्वारेषु कल्पनीय - चित्ररचनादिक्रियाशैली तावत्कचिच्छिलासु डोलासु तब तब चत्वरान्तिके स्तम्भानामुपरि स्थितस्य भित्तिधारणशीलस्य महाफलकादण्डस्य पार्श्वयोरप्यन्यत्र विविधेषु स्थलेषु योजनीयेति प्रतिपादितम् ॥ क्वचिद्भिस्यन्तादिभागेषु शोभार्थं किंवा करणीयमिति चेस, तत्र तोरणाख्यचित्रकर्मरचनैव प्रकल्पयेत्यस्मिन्नध्याये विशदयतीत्यर्थः । स च तोरणाख्यचित्र विशेषो दैवतोरणं, राजतोरणं, मानुषतोरणमिति त्रिधा विभक्तम | कचित्सोपानादिषु टङ्कादिना तक्षणेन क्वचिद्भिश्यन्तभागेषु अतिमसृणसुधादिना कल्पनकर च द्वैविध्यं बोध्यम् ॥ तत्र च किश्वेतादृशतोरणक्रिया कुत्र वा स्थापनीयेत्याकाङ्गायां
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy