________________
४०१
दृढार्गळसमोपेतकवादद्वयभामुरम् । दृढसन्धिक्रिय कार्य द्वारं सर्वशुभप्रदम् ।। २२ ॥ इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे सकलविधद्वारलक्षणकथनं नाम
पञ्चविंशोऽध्यायः ॥
मेलनमर्गलस्थापनादिकश्च स्वयमूह्य शिल्पी कारयेदिति । एवं शुभकालस्थापितमेतादृशद्वारकल्पनं प्रातः प्रायशः सुमङ्गल्यो गोमयादिनाऽध:पट्टिको प्रक्षाल्य रङ्गबल्ली कुसुमगन्धादिभिरलङ्कयुः । तदेव सर्वेषां क्षेमजनकमिति क्रमः ॥ २२ ॥
इति श्रीमदनन्तकृष्णभट्टारकविरचितायां प्रमाणबोधिन्याख्यायां
विश्वकर्मवास्तुशास्त्रव्याख्यायां सकलबिधद्वारलक्षणकथनं नाम
पञ्चविंशोऽध्यायः ॥
8.8.51