________________
४००
समरूपं सप्रमाणं युक्त्या तत्र प्रकल्पयेत् ।
रूपं, रेखारूपं, कचिश्वानन्दकर चित्ररूपं लक्षणं तक्षकः प्रकल्पयेदिति क्रमः । एवमुक्तं सकलविधचित्रतक्षणं तु तासु तासु शुकादिव्यक्तिषु यद्यत्स्वरूपं करादिरेखाप्रमाणादि वर्तते, तैस्सर्वैरपि सहितं तक्षणीयमिति भावः । अङ्गवैकल्ययुतचित्रस्थापने महादोषप्रसक्तेरिति भावः । एवमत्र द्वारेषु द्वितीयादिभोगेषु विविधचित्रकरणमपि शस्तमेव । अपि चैवं चित्रकरणे दारुमयद्वारेषु दारुमयमेव चित्रतक्षणं सुधेष्टिकामयद्वारेषु तन्मयमवेति तत्क्रमश्च ज्ञेयः ||
,
सति बहुविभवे तादृशद्वार चित्ररूप शुक हंस कुमुदाकरादिस्थानेषु सुवर्णपट्टे वा राजतपट्टे वा नवरत्नमयं रचनाजालं योजयेत् । देवालयद्वाराणामधः स्थिततिर्यविछलासु सौवर्णराजतपट्टकल्पनमवश्यं कार्यम् । राजभवनेष्वप्येवमेवेति नियमः । मानुषगेहेषु सति विभव इति क्रमः ॥
किन तादृशनयनानन्दतक्षणं तु प्राथमिकद्वार कल्याणशालादि मुख्यद्वारस्थान एव कार्यम् । न हि सर्वत्र करणीयमिति नियमः । तथापि यथाशक्ति पूर्वोक्तकुमुदादिकं वा स्थापयेदिति
क्रमः ॥ २१ ॥
किश् ता दृश सकलद्धाराणामपि सममृजुसूत्रं द्विद्विकबाट