________________
३९९
शुकपट्ट हंसपढें लताकुसुमपट्टकम् ॥ १८ ॥ अधःस्थले वा सर्वत्र कुमुदादींश्च कल्पयेत् । गान्धर्व भैरवं रूपं क्वचिद्वारेषु योजयेत् ॥ १९ षड्भागे प्रथमे कम्पदलपद्मांशपाट्टकाः। रचयचित्रविन्यासं नेत्रानन्दकरं शुभम् ॥ २० ॥ पट्टे पद्मश्च कुमुदं किङ्किणी क्षुद्रपालिकाम् । रेखावलिं तत्तु रूपमन्यच्चानन्ददायकम् ॥ २१ ॥
अधश्वोपरि तिर्यग्दारुयुगं समसूत्रायामादिदृढं योजयित्वाऽधः पूर्वोक्त दृश्यशिलायामुपरि स्थापयेदिति क्रमः ॥
किन्चतादृशद्वारपावदारुयुगकैदध्य षोढा विभज्य प्रथमभागेऽधस्तलात शुकपर्ट वा हंसपर्ट वा लताकुसुमादिबहुविधपढें वा चित्ररूपं वा तक्षयेत् । किश्तेषां द्वाराणामधश्वोपरि स्थितयोस्तिर्यग्दारुखण्डयोमध्यभागे कुमुदाकारचित्रं वा पद्माकृति घाऽतिरमणीयं यथाप्रमाणं कल्पयेत् । अथवा पूर्वोक्तप्रथमभागे एतादृशचित्रविशेषतक्षणाभावे कम्पदलपद्मवाजनगलादिचित्रं वा यथाक्रमं स्थापयेत । सर्वथा चित्रादिरहितं द्वारं न शोभादये नापि श्रेयस इति च मतिः ॥ २० ॥
किञ्चतेषु द्वारेषु सर्वत्र पार्श्वयोरुपरि च चित्राणां मध्ये मध्ये पट्टरूपं, पद्मरूपं, कुमुदरूपं, किङ्किणीरूपं, क्षुद्रपालिका