________________
३९८
सौवर्ण राजतं वाऽपि दारुजं पार्श्वपट्टकम् ।
अर्थतेषु द्वारेषु कल्पनीयविभागतक्षणचित्ररचनादिलक्षणक्रममाह - तव्यासं तु त्रिहस्तमित्यादिना । एतेषु द्वादश. विधानामुत्तमजाति द्वाराणामायामस्तु त्रिहस्तप्रमाणकः । औन्नत्यं तु तद्विगुणमिति क्रमः । तथा चायामप्रमाणापेक्षया द्विगुणितप्रमाणं नैयत्येनौनत्ये कार्यमित्युक्तं भवति । एवमत्रोक्तप्रमाणात्सर्वथा न न्यूनता कार्येति शिल्लसमयः ॥
पद्मकादिषु द्वारान्तरेषु तु धान्यागारकृषिक्रियोचितद्रव्यागारादिपु क्वचित्स्थलेषु कल्पनीयेषु सार्धद्वयहस्तायाम, पञ्चहस्तप्रमाणन्नित्यं च योजनीयमिति भावः । अयं मध्यमपक्षप्रमाणयोजनप्रकार इति बोध्यः । एतत्प्रमाणहीनं च द्वारं क्वचित्स्थाप्यं भवति । कुन ? क्षुद्रग्रामगृहादिषु कचिदन्तर्गृहेषु अन्येवाढ कादिद्रव्यस्थापनस्थलेषु इति । एतादृशद्वारस्यायाममानं तु किञ्चिन्न्यूनद्विहस्तकमेव । तदुच्छ्रायस्तु तहिगुणित इति क्रमश्च बोध्यः । एतत्प्रमाणन्यूनता तु अधमद्वारद्योतकेति पुञ्जिनार्थः ॥
एतादृशेषु सकलविधेषु द्वारेष्वपि विशेषतः पूर्वभागयोरुपरि च शोभार्थ कल्पनीयविविधचित्रादितक्षणक्रियोचितः भीपर्णिककदम्बकेसरचन्दनादिसारदारूद्भवैरेव दारुखण्डैः निम्नत्वरन्ध्रत्वदग्धत्वखण्डितत्वविशीर्णत्वादिदोषहीनः द्वारपार्श्वदारुयुगं