________________
शालान्ते चत्वरान्ते च कचिद्वारान्तरे तथा ॥२॥
कूटाधिष्ठानभागे च भित्यन्ते च कवाटके । अलिन्दके वेदिकायामपि डोलादिषु क्वचित् ॥३॥
तले वातायने स्तम्भे पटलादिषु वा तथा । पर्यत चापि सोपाने तद्योज्यं शिल्पिभिः क्रमात् ॥
तत्स्थानादिकमाह- शालान्त इत्यादिना । विवाहशालासु विश्रान्निशालास्वामन्त्रणशालाम्बलङ्कारशालासु शयनगृहेषु स्थलान्तरेष्वपि भित्तेरूर्वभागाख्ये पटलाच्छादनाद्यधःस्थलेषु सर्वत्र तादृशतोरणाख्यं कल्पनं रच येदिति लक्षणवाक्यार्थः ॥
एवं चत्वरस्थत्यन्ते, द्वारान्ते, कूटान्तेऽधिष्ठानस्याधोभागे मध्ये चोपरिप्रदेशे कवाटपत नभागेऽलिन्दप्रदेशे वेदिकासु पूजागेहादिषु समुचितस्थलेषु तोरणकल्पनं स्थापयेत् । अपि च दारुक्रियासु, कचिद्वातायनस्थलेषु, स्तम्भेषु, वलभीप्रान्तेषु, पर्यवेषु, फलकादिषु, सोपानभागेषु, दारुक्रियाकल्पनेषु, तादृशतोरणरचना संयोजनीयेति मतिः । एतादृशस्थलेषु तत्र तत्र समुचितप्रदेशेषु युक्त्या पार्श्वस्थलकल्पनाऽविरोधं शिल्पिवर्गरेतादृशतोरणरचना कल्पिता द्रष्टृणां लोचनानन्दकारिणी निर्माणस्य शोभादिजननी परम्परया शुभप्रदा चेति भावः । अतस्तदिदं