________________
अथ शय्यागृहलक्षणकथनं नाम
त्रयोविंशोऽध्यायः ॥
मनोहरस्थले शय्या बलमेधादिवर्धिनी । तस्मात्सर्वैः प्रकर्तव्यं शय्यागेहं मनोहरम् || १ ||
प्रामादशालापुरतः शालान्तःस्थल भागिके । अलिन्दशालयोः कल्प्य मथवा कूटमद्मसु ॥ २ ॥
॥ त्रयोविंशोऽध्यायः ॥
अथास्त्रियोविंशे शय्या गृहलक्षणम् । आदौ तत्कल्पनमाहमनोहरस्थल इत्यादिना । भगवद्यानपूर्वकं भुक्त्वाऽनन्तरं निशादिषु समुचितसमयेषु मनोहर स्थल कल्पितशय्यायां निद्राप्राप्तिरेव मानवानामारोग्यबलबुद्धयादिवर्धनकरीनि शास्त्रसंप्रतिपन्नमेव । तस्मात् सुखेष्बुभिः शय्यागेहं मनोहरं सलक्षणं कारयेदित्युपदेशः ||
तस्य शय्यागेहस्य किं वा विशेषलक्षणम् ? कुत्र वा स्थाप्यमिति चेदाह – धनिकानां भूपालादीनां भवनहर्म्य - प्रासादादिकल्पनस्य प्राथमिकद्वारसमीपे पूर्व भागवेदिका समीपे वा, अथवा तत्पश्चाद्भागेऽलिन्दस्याने वा शय्यागेहं स्थापनीयम् ॥
ļ
एवं प्रथमावरणे स्थापन सौकर्याद्यभावे द्वितीयावरण
तलस्थापितकल्याणशालायाः शालानां वा पूर्वभागे वाथलाख्य