________________
अस्या भोजनशालाया मध्यभागे स्थापितस्य द्वादशस्तम्भयुतस्य मण्टपाकारकल्पनविशेषस्य मध्यवेदिकायां चिह्नितायामेव पूर्वप्रतिपादितरीत्या परिवेषणात् पूर्व भक्ष्यखाद्यभोज्यादि स्थाप्यमिति संक्षेपेण भोजनशालालक्षणं बोध्यम् ॥
इति श्रीमदनन्तकृष्णभट्टारकविरचितायां प्रमाणबाधेन्याख्यायां
विश्वकर्मवास्तुशास्रव्याख्यायां भोजनशालालक्षणकथनं नाम
द्वाविंशोऽध्यायः