________________
३८१
भौमादिषूनतनलेष्वपि गन्धानिलान्विते । स्थलेषु नातिशीतोष्णेष्वपि शय्यास्थलं मतम् ॥ ३ ॥ क्षुद्राधिष्ठानमंयुक्तं सोपानसहितं तु वा ।
मध्य चत्वरसम सूत्र कल्पिनायां मध्यभागशालायां वा शय्यास्थानं कल्प्यम । एतावना वाक्येन गृहेषु भवनेषु च पूर्व भागद्वितीयभागयोरेव शम्यांग सुखावहं, नान्यत्र पश्चाद्भागादिष्विति शय्याम्थल निर्देशः ।। २ ।।
एवं प्रामगृहपुर गृहेय साधारण मानवभव नेष्वपि कल्प्यस्य शय्यागेहस्य स्थल निर्देशनं प्रतिपादितम । अधुना नगरराजधान्यादिषु भूपालादीनां भवनेष कल्पनीयशय्यारोहस्थलं निर्दिशति --- भौमादिष्विति । एकादि बहुभोमकल्पने यदि निर्मिते तदा द्वितीयभीमे वा तृतीयभौमे वा सुगन्धानिलमेवनाहे तले तादृशशय्यागेहं स्थापयेत् । किञ्च सर्वव नानिशीतोष्णस्थल एव शय्यागेई पृथग्वा भवननिर्माण महितं वा सुखवातसेवनाई. कारयेदिति स्थलकथनम ॥
शय्यागेहं कथंभूतम ? क्षुद्राधिष्ठानसंयुक्तमिति । कथं वा अत्राधिष्ठानं उक्तं ? तच्च शिलारूपमिष्टिकारूपं दारुमयं वेति चेत्तदाह - अत्रोक्तनाधिष्ठानशब्देन न मण्टपाद्यर्थ शिलाधिठानकल्प्यमानपद्मकुमुदगळवाज नादिरचनोच्यते । परन्तु वितस्ति