________________
३७६
सूत्रादिना वा त्रेधा सममानं बिभक्ते प्रथमभागे उत्तरत्र प्रतिपादयिष्यमाणलक्षणान्वितं लक्ष्मीद्वारं प्राथमिकं स्थाप्यम | तद्वारप्रदेशमारभ्य देहलीशालासी मावधिकः प्रथमावरणनामकः पूर्वभागः ॥
ततश्च त्वरवाथलाख्यचत्व र वैवाहिक शालादि बहुशाला युतस्य
एकादिभौमतलयुक्तस्य कल्पनस्य
द्वितीयावरण
उपरिभागे
नामकस्य मध्यभाग इति नामान्तरम् ||
ततः पाकादिकार्योचित बहुविधद्रव्यस्थापना हन्तिर्गेहकूपचत्वरशाला भोजनशालादिकल्पनसमेतस्य निर्माणस्य तृतीयावरणनामकस्य पश्चाद्भाग इति नाम । तादृशपश्चाद्भागे तद्वास्तुभागे गृहमहान समामेय्यां क्वचित देशेषु विन्ध्योत्तरेपु वायव्यां प्राच्यां वा दिशि स्थापयेत । तत्रैव पुरोभागे पुरशालान्तर्भवनासुपेते तादृशपचनागारद्रव्यराशींश्च स्थापयेत् । किश्च तदनुगुणं तस्य कल्पनमन्तर्गेहलक्षणान्वितं कारयेदित्यन्ये ॥
सर्वथा प्रायशो देशेषु वास्तुस्थलानुगुणं महानसवास्तुसीमनि आप्रेयभागे चुल्लीं निधाय व्यञ्जनादिपाकक्रियारच नोपयोगिनां दधिघृततैलमाण्डादीनां स्थापनस्थल तत्र करूपयेत् । किन तस्य पाकभवनस्य पूर्वभाग एवैतादृशलक्षणान्वितां भोजनशालामेतयोः कल्पनयोर्मध्ये इष्टदेवतानित्यपूजार्हस्थान क्षुद्रग्रहरूपं क्षुद्रशालारूपं वा यथास्थलादिविभवं प्रकरूपयेदिति पिण्डितार्थः ॥