________________
मध्य चत्वरसयुक्तशालाभिस्तिसृभिस्तु वा । द्वाभ्यामुपेतमथवा चतुरङ्गणमासुरा ॥ ११ ॥ वर्तुलादिकमेतत्तु कारयेन कदाचन ।
मण्डलरूपमथवा शालारूपं मङ्गलवेदिकोपेतं चतुरश्रमायतं वा प्रकल्पयेन । भवनवास्तुमा नवदेव स्थापयदित्यन्ये । अत्रापि वङ्गको मल पाञ्चालकुरुकेकयमगधचोळपाण्ड्यादि देशीय शिष्टाचारकल्पनमेव युक्तं पश्यामः ॥
पिण्डितार्थस्तु सर्वत्र ग्रामपुरादिषु गृहादौ यतिपति. परिव्राजकादीनां भोजनस्थलं समुचितशुद्ध भूमौ वेदरूपकल्पनं पृथगेव कार्यम । अन्येपान्तु माणवकपितृमीमन्तिनीगृह पतिप्रमुखभोजनागारं तु मध्य चत्वरसमेतं प्राच्यादिचतुर्दिग्भागेषु चतुश्शालासंयुतकल्पनमथवा शालात्रयावृतमथवा स्थलवैपुल्याद्यभावे शालाद्वयसमेतं वा कल्प्यम । ग्राम गृहेष्वेकशालायुतकल्पनमपि न दोषायेति संप्रदायः । इदश्च भोजनागारं ग्रामगृहेषु नगर. भवनसदनादिषु भूपालहर्म्यप्रामादादिषु पश्चाद्भाग एव स्थापनीयमिति शास्त्रीयनियमो नोल्लङ्घनीयः। कुतः? तदादरवतां विश्वस्तानां तद्रीत्या कल्पनं बहुविधश्रेयाप्रदमिति वास्तुलनणविदः ।।
कुत्र वा पश्चाद्भागस्थलनिर्देश: ? उच्यते --- सर्वत्र प्रामनगरगृहादिषु देयान्विते चतुरश्रे वा कल्पने दण्डेन रज्जु