________________
३७४
पृथगेव तथा कल्प्यं स्थानं माणवकादिनाम् ॥ ९ ॥ पितॄणां स्थानमन्यच्च कीर्तितं तन्त्रपारगैः ।
योषितां भोजनस्थानं पृथगेव प्रकल्पयेत् ॥ १० ॥
भोजनस्थलं तु पृथगेव स्थापनीयम् । न मानव भोजनागार एव तान् भोजयेदिति भावः । तच्च यतीनां भोजनस्थानं तावन पृथक चतुरश्र वेदिकारूपं अथवा कोणरूपं मण्डलाकारं वा वैदिकास्थानं प्रकल्प्य तदुपरि एणाजिनं च स्थाप्यमिति मतिः । एवं वेदशास्त्राभ्यसनशीलानां विद्यार्थिनां बहूनां भोजनस्थानं क्षुद्रशालारूपम अथवा महाशालारूपमङ्गणचतुष्कादियुतं यथावटुसंख्यं वैशाल्यादियुतन कार्येन ॥
एवं व्रतश्राद्धादिदिनेषु आवाहनीयपितॄणां वम्वादिरूपाणां श्रोत्रियब्राह्मणानां भोजनस्थानं शुद्धस्थले समुचिते पृथगेव कार्यम् । तच्च चतुरश्रमासनं वा यथास्थलविभवमासनं कल्प्य - मिति समयः न मण्डलाकारकोणाकारकल्पनमेषां शुद्धये चेति । इदञ्च श्राद्धनिमन्त्रितत्राह्मणभोजनस्थलं एकाङ्गणयुतम, अथवाऽङ्गणद्वयातिभासुरं स्तम्भचतुष्कसहितमथवा शालारूपं कल्पयित्वा तस्य दक्षिणाननमेत्र स्थापयेदिति पितृतृप्तिकार्यज्ञाः शिल्पतन्त्र पारङ्गताश्च ॥
एवं योषितां भोजनशालाऽपि पृथगेव स्थाप्या । तत्कल्पनं