________________
३७७
चटूनां प्राङ्मुखः पीठः पितॄणामुत्तराननः ॥ १२ ॥ ऐन्द्रं वारुणकं शिल्पी पुंसां श्रेयःप्रदो मतः । योषितां प्राङ्मुखशस्तः सौभाग्यतनयप्रदः ॥ १३ ॥ इति विश्वकर्मणीविश्वकर्मवास्तुशास्त्रे भोजनशाला लक्षणनिरूपणं नाम || द्वाविंशोऽध्यायः ॥
तथा च तत्र भोजनशालायां विद्यार्थिनां माणवकादीनां भोजनासनं प्राङ्मुखं कार्यम् । श्राद्धादिनादिषु आवाहनीय - पित्रादीनां भोजनासनमुदङ्मुखं कार्यम् । पुंसां कन्यकानां माङ्गल्यवतीनां योषितां च भोजनासनानि प्राचीमुखान्याहोस्वित् प्रतीचीमुखानि तदुभयमुखानि च तासां सौभाग्यसुतादिदायीनीति महर्षयस्तत्त्वविदः । अत एव विवाहादिसमयेध्वपि कन्यकायोषिदादीनां प्राङ्मुखोपवेशनं स्मृत्यादिषु प्रसिद्धम । तस्मादेतादृशशुभ मुखभासुरं नानाविधं भोजनार्थं पीठं प्रकल्प्य तत्र भोजनशालायां यथाकालमीश्वरध्यानपूर्वकं सन्ध्यामेवनानन्तरं श्रेयसे भुञ्जीयादित्यर्थः ॥
एतादृशभोज नागार वास्तुस्थलस्यारोग्यदायी सूर्योऽन्नाभिवृद्धिदायिनी धेनुदेवता चाधिपतिरिति शास्त्रज्ञाः । पूर्वोक्तरीत्या मध्यचत्वरं पार्श्वयोरेकादिचतुरशालासमेतं कचिच्छालाष्टकसमेतं कल्पनीयं कल्पनं तल्लक्षणान्तराणि च स्वयमेव शिल्पी सूक्ष्मबुद्धि: सुखावहं मनोहरं कल्पयेत् ॥
कि
भोजनस्थानकल्पनं
शिल्पज्ञः स्वपत्यादिः
विप्रक्षत्रियवैश्यादिजातिभेदात्पूर्वव त्तत्कम्पनलक्षणान्तराणि
S S. 48