________________
३७१
युग्मदण्डसमोपेतं देध्य विंशतिदण्डकम् । नैमित्तिके कल्पने तु मध्यभित्तिसमन्वितम् ॥४॥
यथाशास्त्रप्रमाणं कल्पयेदित्युक्तं भवति । तच भोजनागारं द्विविधम् - नित्यभोजनागारम , नैमित्तिककालभोजनागारश्चेति ॥
किश्च तत्रैवं व्यवहारः । यथा-प्रामेप कचित्पुरेषु स्थलान्तरेषु च क्षुद्रेषु साधारण मानवगृहेषु भोजनागारमिति लोकव्यवहार उच्यते । प्रथमतो निर्दिग्रामगृहभोजनस्थलप्रमाणापेक्षया अतिवैशाल्यायामयुतत्वेन भवनादौ तस्य शालारूपेण कल्पितत्वादित्ययमर्थः अगारशालापदेनैव सूच्यते । तस्मादाद्यस्य ग्रामगृहभोजनागारस्य प्रमाणं तु साधारणदण्डद्वयमारभ्य विंशतिदण्डावधिकदैर्घायुतमिति भावः । वैशाल्यश्च तथा माधारणदण्डद्वय. मेवेति वाक्यार्थः स्फुरत्येव । द्वितीयस्य धनिकभूपालादिभवनेषु कल्पितस्य भोजनशालाख्यकल्पनस्य प्रमाणं तु तहिगुणितमिति भावः ॥ ___अस्य विवृतिर्यथा -धनिकादिभवनकल्पितभोजनशालाया वैशाल्यं भूपदण्डद्वयप्रमाणम । देय॑न्तु भूपदण्डविंशत्यधिकमिति । किञ्चास्यां शालायां मध्ये मध्ये समुचित स्थले षड्वाऽष्टौ वा दश वा महाङ्गणानि प्रकल्प्य तेषामङ्गणानां मध्यभागे भक्ष्यले खाद्यव्यञ्जनादिभोजनद्रव्यस्थापनवेदिकां द्वित्र्यङ्गुलौन्नत्यां चतुरश्रां स्थापयेत् ॥