SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ अथ भोजनशालालक्षणनिरूपणं नाम द्वाविंशोऽध्यायः॥ पृथिव्यादिमहाभूतैर्निर्मिता मानुषी तनुः । तस्मात्तदुत्थसद्रव्ये स्तस्याः पोषणमीरितम् ॥ १ ॥ यथाकालं पक्कमन्नं भक्ष्यं खाद्यश्च लेह्यकम् । भुञ्जीयान्मतिमान्देही स्थाने सल्लक्षणान्विते ॥ २॥ तम्मात्सुखादिश्रेयोऽर्थी भोजनागारमुत्तमम् । स्थापयेत्स्वगृहे नित्यं नैमित्तिकमिदं बुधः ।। ३ ॥ ॥ द्वाविंशोऽध्यायः ॥ अथ भोजनशालालझणकथनात्मकं द्वाविंशाध्यायमारभतेपृथिव्यादिमहाभतेरिति । पृथिव्यतेजोवायवा काशस्यमहाभूतपञ्चकोशैरेव ब्रह्मणा मानुपी तनुः सृष्टा । तस्मात्कारणात्तादृशपृथिव्यादिपञ्चभूनेभ्यः प्रवृद्ध स्तण्डुलाढकचणकशाकादिवगैरेव सा मानुपी तनुः पोषणीयेति शास्त्रकारवचनम् ।। तथा तादृशभोज्यवाद्यचोप्यलेह्यादीनां पक्कपदार्थानां क्षुन्निवारणाय स्वीकरणेऽपि यथाकालं सम्यक् पक्कमुत्तमस्थलेष्वेव भोक्तव्यमित्यादिको विषयो भोजनकुतूहलाख्य पाकशास्त्रग्रन्थेषु प्रसिद्ध एव । तस्मादुत्तमस्थल जायमानसुखजीर्णारोग्यपुष्टयायु नादिसुखापेक्षा पुमाम् यथाशक्ति स्वीयसदने भोजनस्थलं
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy