________________
३७२
अथवा स्तम्भपञ्चाशद्वारस्तम्भयान्वितम् । पार्श्वयोरुभयोः स्थानं चत्वारिंशत्पदं पृथु ॥ ५ ॥
भक्ष्यादिस्थापनार्थाय वेदमध्ये पादका ।
किन तादृशभोजनस्थापनवेद्याः पुरतः पश्चाच पद्रियरीत्या भोक्तृणामासनादिकं स्थाप्यमिति समयः । तथा चेमां धनिक भूपालादि भोजनशालां द्विपाशत्स्तम्भोपेतां तादृशभूपदण्डविंशतिकदैर्यान्विताच कारयेदिति फलति । अयमेव शालाकारकल्पनप्रकार इति भावः ॥
·
उद्धार मण्डल
कथं वा प्रकल्पनशैलीत्याकाङ्गायां शिल्पिस्थ पत्यादिसुखब्रोधनाय निर्माणः क्रमोऽस्माभिर्लिख्यते 1 लेखचेन च प्रकाश्यते । यथा --- अस्यास्तु धनिक भोजनशालायाः प्रत्येकं स्तम्भदशकोपेता चतुरश्रेणिका प्रताप सच्य भागयो। स्थाच्या । तथा च तथा स्थापने अङ्गणत्रयं भवति । तत्र च मध्यमाङ्गणश्य मध्यभाग एव कश्चिन्मण्डरः स्तम्भद्वादशत्रुतः कल्पनीयः । तस्मिन्नेव मण्टपे पूर्वोक्तमानयुतायां अधः कल्पितवेद्यां भक्त्य भोज्यव्यञ्जनादिस्थापनमिति भावः । एवं करणे तत्रोपविष्टामां भोजनानां परिवेषणसौकर्यादिकमिति चान्तरालिको भावः । अपि चैतस्यां भोजनशालायां उभयोः पार्श्वयोः पीठाद्यासनानि स्थाप्यानि । तच देशभेदेन इष्टिकासुधादिभिः स्थिरत्वेन कल्पन,