________________
३६८
द्वयोस्तु मध्यमे भागे वेदिवैवाहिकी मता । नानासनसमोपेतं दीपभागविराजितम् ||
किन शैल्या तयाऽन्तर्गेहकल्पनेऽपि तादृशद्वाराणि किञ्च चतुरशालासम्मेलनस्थलेषु वा तत्र तत्र चत्वरमभ्यसूत्रपातीनि स्थाप्यानि न पार्श्वयोः : गमनागमनसूत्रवन्तीति । किख तषा द्वाराणा मौन्नत्यवैशाल्यादिमानेषु प्रायशः परम्परं न वैपम्यभाक्तत्रं कल्पनीयमिति नियमेन क्वचित्प्रथमद्वारवैशाल्यापेक्षया द्वितीयद्वारस्य किञ्चिन्न्यून प्रमाणत्वं तृतीयद्वारे तदपेक्षया किञ्चिन्न्यूनत्वं ; तदपेक्षया किञ्चिन्न्यूनत्वं चतुर्थद्वार इत्यादिकः क्रमस्तु साधारणमानवभवनेष्वेव कल्पनीयः । धनिनां भवनेषु भूपालानां हर्म्यप्रासादेपु सर्वत्र भौमतलकल्पनेष्वपि द्वाराणां परस्पर मौन्नत्यवैशाल्यादिप्रमाणं सममेव स्थापनीयम् । तदानीमेव तेषां भौमतलकल्पनानां शोभादायादिकं कल्पनसौकर्यादिकं सौन्दर्यादिकति शिल्पसमयः ॥ ११ ॥
किश्वरीत्या भवनेषु स्थापितानां अन्तर्गेह योरन्तर्गेहानां मध्ये वा क्वचित स्थळे वैवाहिकवेदिरिव क्षुद्रवेदी हंसादिचित्रयुता भूतले सुधादिरचनेोपेता निर्मापणीया ||
किञ्च तादृशभवनस्य मध्यभागे वा प्रान्तभागेषु वा उम्नतफलका सनक्षुद्रखव महाख दूव शयनासनादीनि दीपस्थापनतलानि च युक्त्या तत्र तत्र स्थलेऽन्तर्भवनप्रमाणानुगुणं स्थापयेत् ॥