________________
३६७
द्वारोपद्वारयुक्तं वा युग्मयुग्मकवाटकम् | अन्तर्बहिश्व भित्तीनां प्रान्तेषु क्षुद्रपट्टिका ॥ ९ ॥
समभानं पुरोमानं कल्पयेयुक्तिपूर्वकम् । विषमस्थलमानैव कार्य कुत्रापि शिल्पिभिः ॥ १० ॥
भित्तिसम्मुखमाग्वाऽपि न स्थाप्यं स्तम्भममुग्वम् । - युग्मयुग्मविभेदेन समसंख्यां प्रकल्पयेत् ॥ ११ ॥
कल्पनेषु सव्यापसव्ययोर्भागयोर्गवाक्षद्वयं सममानं निम्नोन्नतरहितं स्थापयेत् । किञ्च तादृशद्वाराणां तरणानन्तरं तत्समीप एव तन्मानयुतमेवोपद्वारं च कचिदलिन्द भागयुतकल्पनाविशेषेषु बहुविधेषु भवनादिकल्पनेपु स्थापनीयमित्यर्थश्च प्रतीयते ॥
किचैत्रमत्रान्तर्भवने विषमसंख्या न कार्या । तथा न स्तम्भकुड्यभित्तिकोणादिसम्मुखं स्थापनीयम् । किकस्यां शालायां प्राचीभागेऽन्तर्भवनद्वयं कल्पितं यदि तदा प्रतीचीभागे च तन्मानमेवान्तर्भवनद्वयं तदीयद्वारगवाक्षवितानादिलक्षणोपेतं समतले स्थापनीयमित्येतत्क्रमश्र बोध्यः । इदव लक्षणं साधारणप्रामगृहेषु, मानवसदनेषु, धनिक भवनेपु, राजकीय हर्म्य - प्रासादेषु, बहु सौध मञ्जुल कलरनेषु अवश्यं कल्पनीयमिति शिल्पिनां संप्रदायो बोध्यः श्रेयस्कर: शोभाजनक सौकर्यावहश्चेति साधवः ॥