________________
३६४
चतुरश्रं वर्तुले वा कोणषटकमथापि वा । कोणाष्टकसमायुक्तं युग्मपट्टममन्वितम् ॥ ७ ॥
चतुष्कोपेतां शालामित्यादिकल्पनशैलीमप्यूह्य करणीयमिति क्रमः । इत्यादिकमान्तरालिकक्रमं शिल्पी स्वयमेव ज्ञात्वा तत्र तत्र मानवसदनादिषु स्थलानुकूलं यथाविभवमन्तर्भवन कल्पनमिदं कारयेदिति सङ्ग्रहेणोपेदशः ||
इत्थंप्रकारेण सामान्यलक्षणं प्रतिपाद्याधुना विशेषलक्षणानि विशदयति — युग्मतूलादिसंवृतमित्यादिना । यथा युग्मसंख्याकस्तम्भकल्पनं निर्माणेषु सर्वेषु विहितं तथैवान्तभवन कल्पनेष्वन्तर्भागेषु स्थानीय तुला दारुखण्डानामपि युग्मसंख्याकल्पनं शिल्पशास्त्रनियम इति बोध्यम ॥ ६ ॥
किश्वदमन्तर्भवनं चतुरश्ररूपं वा दीर्घरूपं वा वर्तुलं कोणषट्कयुतं वा कोणाष्टकयुतं वा स्थापयेदिति स्थलेच्छानुकूलविकल्पः । न तु त्रिकोणाकारवदिति भावः । तथा स्थापने तस्यान्तर्भवनस्य देवैशल्यप्रमाणादिकं सर्वमपि युगसंख्याकमेव । न तु एकत्रिपञ्चादिविषमसंख्येति भावः । सर्वथा धनुर्मुष्टिद्वयवैशाल्यायामान नहीनता शस्तेति । तादृशधनुर्मुष्टिद्वयप्रमाणयुतं अन्तर्गेहं तु कृषिकार्योचित सीरशङ्कुला दिस्थापनाईमेव । न तु जनवासायेति विश्वकर्मशिल्प समयः ॥