________________
३६५
द्वारयुक्तं द्वारहीनं क्वचित्तच्च प्रकल्पयेत् ।
तस्मात्मर्वथा प्रामेषु नगरेष्वपि तादृशधनुर्मुष्टिचतुष्कादारभ्य पृथुलदृढमुखीकरणादिकार्योचितं प्रमाणं यथा स्थलविभवं कल्पयदिति तत्क्रमः ।।
किश्चात्रान्तर्भवने मति विभवे युग्मपट्टरचनां स्थापयेन । युग्मपट्ट नाम द्वाराणां बहिरन्तश्च भित्तिप्रान्ते दृढार्थ फलकास्थापनमिति केचित । वयं तु अर्गलादिनिवेशार्हस्थलं द्वारम्य कवाटस्य संयोजनाय अयःकीलबन्धश्चेति । प्रायशो द्वाराणां कवाटयुगलस्योक्तत्वात् तादृशयुग्म पट्ट कल्पनमुचितं इति शिल्पविदामाशयः साधुरेवेति । न त्वनान्तर्भवने पूर्वप्रतिमादिशैल्या एकादि चतुरिममे तकल्पनं न्याय्य मेव ।।
परन्तु मूले द्वारदीनमित्युक्तत्वात द्वारविहीनकल्पनं सर्वत्रानई मेव । वैफल्यशोभाराहित्यादिकं च तादृशान्तर्भवन गुहेति वक्तुमपि शक्यमिति चेन्न । द्वारहीनमित्यत्रायमाशयः । यथा तत्र तत्र सारदारूखण्डकृतद्वार कल्पनं माऽस्तु | परन्तु तादृशद्वारस्थापनस्थाने चतुःशालासम्मेलनादिस्थलेषु मुखीकरणादिसौकर्यशैल्यैव द्वाराकारं गमनागमनयोग्यमिष्टिकासुधादिभिरेव कल्पनं कार्यमिति मतिः ॥
किन शिल्पकार्येषु प्रायशो द्वितलादिसौधनिर्माण