________________
३४१
―
विहारमण्डपो वाऽपि महाशालाऽथवा मता । चतुरश्रं भानुदण्डमथवा तत्कलान्वितम् ।। १२ ।।
मध्यकल्पनसंयुक्तं वितानादिमनोहरम् । पञ्चभौमं सप्तभौमं नवभौममथापि वा ॥ १३ ॥
C
तच्च कल्पनं लोके बहुविधं भवति, मण्टपरूपं, शालारूपं उपरि कूपकल्पनरूपं, वरजककल्पनरूपमित्यादिना । तत्राद्यद्वितीययोर्लक्षणमत्र विशदद्यति । यथा वा मण्टपाकाररूपं वा महाशालारूपं वा शुद्धान्तनिर्माणसमीपे तत्कल्पनं पञ्चभौमान्वितं वा सप्तभौमान्वितं वा सति विभवे कौतुके च नवभोमोपेतं वा शिल्पिवर्गः प्रकल्पयेदित्यर्थः । तत्रापि कोऽपि नियमः स्वीकार्य : । यथा तच्च विहारालोककल्पनं तु स्तम्भषोडशकसंयुतमण्टपाकृतिकं यदि निर्मितम्, तदा तत्र चतुरश्रप्रमाणं भूपभानुदण्डावधिकं ज्ञेयम अथवा षोडशदण्डावधिकं वेति तदीयप्रमाणक्रमः । सर्वथा न दण्डपञ्चकहीनमिति ॥
"
यदि महाशालाकाररूपं निर्माणं कृतम्, तदा तत्र शालायां भानुदण्डदैघ्यं वैशाल्ये दण्डत्रयमिति च विवेकः । एतत्सर्वविधमपि प्रमाणजालमुत्तरत्र बहुविधशाला लक्षणप्रकरणे स्पष्टीभविष्यति ॥ १३ ॥