________________
३४०
वातायनशतोपेतो वितानादिभिरन्वितः। कलशादिसमोपेतः कल्पनीयो मनोहरः ॥१०॥
अथ विविधगवाक्षलक्षणकथनम् ॥ भूपतेस्तु महिष्या वा तुष्टयर्थ कल्पनं वरम् । कल्पनीयं शिल्पधिया कल्पमूत्रविधानतः ॥ ११॥
गन्धर्वादिप्रतिकृतिसमेतद्वादशद्वारभागसहितं नानाचित्रवितानाधलकृतं वातायनशतोपेतं सौधभित्तिप्रान्तोपरि मञ्जुलाकारक्षुद्रकलशोपेतमतिमनोहरविविधनिर्मागरचनोपेतं यामरक्षकादिरक्षावृताङ्गणबहिरङ्गणवाटिककल्पनं शिल्पी युक्त्या यथाशास्त्रमानं कल्पयेदित्युपदेशः । नात्र शिखरस्थापनादिकमित्यादिमतान्तरं नाविष्क्रियते । प्रायशो ग्रन्थान्तरकथितशुद्धान्तनिर्माणलक्षणेऽपादमेव लक्षणं लगतीति सर्वमनव द्यमिति भावः ॥ १० ॥
इत्यन्तःपुरलक्षणकथनम् ॥
शुद्धान्तनिर्माणकथनप्रसङ्गादत्र शुद्धान्तवासिनीनां महिषी. प्रमुखविलासिनीनां विहारस्थललक्षणप्रतिपादनपूर्वकं तन्निवासभवनोपयोगिबहुविधगवाझलक्षण माह -- भूपतेरित्यादिना । भूपतेस्तन्महिष्याश्च मनस्समुल्लासवर्धनचणं कल्पनविशेष कचिद्यथासूत्रमानं कल्पयेदित्युपदेशः ।।