________________
मध्यागार विनिष्क्रान्तकल्पनेन समन्वितः ॥ ६ ॥ लक्ष्म्यादिलसितद्वारो बहुचित्र मनोहरः । शुद्धान्तो रक्षणोपेतः कार्यो भूपालसिद्धये ॥ ७ ॥ कौवे भूषणं प्रोक्तं वारुणे वस्त्रादिकम् । दक्षिणस्यां गन्धमाल्यं पूर्वे भोजनमीरितम् ॥ ८ ॥
३३९
गन्धर्वदेवचित्राढ्यं कल्पयेच्छिल्पकोविदः । तटाकमथवा वापीं तत्पार्श्वे कल्पयेद्बुधः ॥ ९ ॥ चेटीनां वासभवनैरन्वितश्च समन्ततः ।
एवं वरुणदिगवशालायां महिष्यादीनां कौशेयदुकुलादिकं स्थाप्यम | दक्षिणदिग्गतशालायां गन्धमाल्य मृगनाभी घुसृणादिक च स्थापयित्वा ऐन्द्रदिग्गतशालायां महिष्या भोजनवेदिका सलक्षणा स्थाप्येति ॥
1
किश्चैतादृशशालायां पुरोभागे क्षत्रियाण्यादीनां कन्दुक
आहोस्वित्तादृशशुद्धान्तनिर्माणाद्वहि:
क्रीडादिस्थानं कल्प्यम् । समुचितेऽतीव वैशात्यवति स्थले उद्यानसमीपे वा खेलनस्थानं प्रकल्प्यतामितीच्छाधीनविकल्पः । कितादृशोपशालानां नातिदूरे
स्थलान्तरे महिषी परिचारिकाणां
चेटीनामावासस्थलानि
निर्मापणीयानीत्यर्थः ॥
अपि चात्रान्तः पुरकल्पनं तावम् तत्र तत्र गजलक्ष्मी
3. S. 43