________________
३३८
तद्भाग क्रीडनस्थानं कल्पयेद्वहिरेव वा ॥५॥ द्वारोपद्वारसंयुक्तः केसरक्रियया युतः ।
रचनोपेतं निर्माय तदुपर्यन्त पुरकल्पनं विभौमलसितमथवा पञ्चभौमसमेतं प्रकल्पयेदित्यर्थः ।
किञ्चैतादृशशुद्धान्तनिर्माण मुख्यकल्पनस्य मध्यमभागे मण्डलाकारां मुखीकरणाापना काश्चन विशालां शाला कल्पयेत । किमर्थम् ? तस्यामेव मण्डलाकारशालायां पट्टमहिष्याइशयनादिस्थानकल्पनमिति विवेकः ॥
तस्मात्तादृशमण्डल शाला परिनश्चतुरश्रकल्पनावधि कामुपशालां मध्ये मध्ये चन्द्रिका तपादिपतनयोग्यवार्थल सहितां स्थापयित्वा तादृशपट्टमहिषी शयनादिम्थानभागाश्चतसृष्वपि दिक्षु चतुम्समसूत्रः तस्य चत्वरभागस्यागमनमार्गम्तथैव तादृशचत्वरभागादुपशालाया आगमनमार्गश्च अलिन्दशालासमेतो वा क्षुद्रापशालायुता वा कल्पनीय इति निर्माणशैलीकथनम् । स च प्रस्तराख्यपटलान्वित इति भावः ।।
एवंप्रकारेण स्थापितानाश्चतुर्दिग्भागस्थितानां तादृशमहाशालानां प्रयोजनं किमिति न वाच्यम् । तञ्च स्पष्टमेव । कथम् ? तासूदीचीदिग्भागगतशालायां महिष्यादीनामाभरणस्थापनालकरणवेदिकाकल्पनादिकं कार्यम ।।