________________
३४२
सोपानपङ्क्ति संगीत कूपनिर्माणभासुरम् । चित्रतोरणयुग्द्वारचतुष्केनान्वितं तथा ॥ १४ ॥
आलोकपालिकायुक्तं तत्रस्थे तु गवाक्षकम् ।
किञ्च भूपालस्य महिष्याः मनस्नमुल्लासहेतवे कल्पनीयालोकननिर्माणम्य किंवा लक्षणमित्यत आह सोपानेति । पूर्वोक्तरीत्या चतुरश्रमायतं वा मण्टपशालाशैल्यन्तरमतं वा प्रथमभौम कल्पनं निर्माय तदुपरि द्वितीय मौमकल्वनमारभ्य सोपानपङ्क्तिसंत्रीत कूपनिर्माणाकारयुतं कल्पनं स्थापयेदित्युपदेशः । अस्य विवृतिर्यथा— कल्पनमिदं भूपमहिष्यादीनामन्तिकस्थलभासुर भूमिवनशैलोद्यानादिनिरीक्षणाय स्थापनीयं खलु । तस्मादेतत्कल्पनं पूर्वोक्तरीत्या तादृशलक्षणान्वितं प्रथमनलं निर्माय तदुपरिकल्पनं साधारणदण्डत्रय वैशाल्य सहितं चतुरश्र मथवा मण्डलाकारकल्पनं तादृशनवभौमावधिकं पतनादिभयनिरासाय पार्श्वयोः करदण्डशृङ्खलाद्युपेतं च कार्यमिति ॥
-
तव च
द्वितीयभौमतले चतसृष्वपि दिक्षु स्थापितेषु चत्वरमागेषु मनोहरगवाअकल्पन नालोकनार्थं स्थापयेत् । तथा च भौमनवकेष्वाहत्य संख्यया पत्रिंशद्भवास्थापनमिति समयः । एतादृशेषु गत्राभ्युनशालाचत्वरावृतस्य तस्य मध्यकल्पनस्योपर्युपर्यारोहणार्थं द्वितीय मौमतलात् तृतीयभौमतलप्राप्तये सोपानरचना