SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ तदन्तर्भूगर्भदेशे चतुरश्रप्रमाणकम् । अलिन्दद्वयसंयुक्तं तद्द्वारं कीर्तितं क्रमात् ॥ १८ ॥ दण्डत्रयं चतुर्दण्डमथवा पञ्चदण्डकम् । मध्य भागप्रमाणश्च स्थापयेत्सूत्रमानवित् ॥ १९ ॥ धनशालां राजधान्यां नगरेषु पुरेषु वा तन्मध्यभागे वा समुचिते स्थल प्रकल्पयेत् । आहोम्विद्भपालप्रामादवास्तुमीमान्तर्गत वा स्थापयेदिति मर्वथा पूर्वप्रतिपादितरीत्या अस्याश्शालायाः परिखावृतत्वं प्राकारावृतत्वं वा तदुभयसमवेतत्वं वा मुख्यरक्षालक्षणमित्युदीरितं भवति । किञ्च तादृशपरिखाप्राकारान्तर्गतायाः अस्याः पौरधनशालाया मध्यकल्पनिर्माणन्तु सप्तभित्त्यावृतं सप्तद्वारान्तर्गतं तत्र तत्र अलिन्दयुग्मसमन्वितं प्राथमिके उदीचीदिङ्मुख द्वार बहुविधचित्ररचनोपेतं स्थापयेदित्युपदेशः ॥ किञ्च तादृशमध्यनिर्माणस्य प्रमाणक्रमो यथा - तस्य मध्यनिर्माणस्य प्रमाणं भूपदण्डत्रयादिकं भूपदण्डपश्चकावधीति । तथा च तत्र मध्यनिर्माणं चतुरनं वा दैययुतं वा शालाकृतिसहितं वा कल्पयेदिति तद्विकल्पो भूपालेच्छाधीन इति भावः । किच्चात्र नियमः कोऽपि निर्धार्यः । यथा-- ययैव शैल्या चतुरश्र. निर्मित्युपेतया आहोस्विदायामोपेतया निर्मित्या सहिता धनशाव्यं स्थाप्यते, तयैव प्रमाणशैल्या तन्मध्यकल्पनस्य अन्तर्गतां मुख्या धनवेदिकान शिल्पी स्थापयेदिति मर्यादा । S. 3. 42
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy