________________
३३२
गणकाद्यधिनेतृणामासनैश्च समन्वितम् । सर्वाभरणकैर्दिव्यैनिधिदेवस्सुरक्षितम् ॥ २० ॥ भूगर्भस्थानसंयुक्तं भूमिदेवीसमन्वितम् । धेनुचित्रलसद्भागधनवेद्या समन्वितम् ॥ २१ ॥ स्थापये दुत्तरास्यश्च सौवर्णद्वारपट्टिकम् । सुवर्ण स्थापयत्पूर्व राजतं दक्षिणे तथा ।। २२ ।। उदीच्यां नवरत्नानि वारुणे लिपिकारिणः । स्थापयेत्क्रमशो भक्त्या प्रत्यहं चाचयेन्नृपः ।। २३ ॥ प्रथमावरणे दीपदेवी स्थाप्या सहासना । द्वितीयावरणे देवी चामरग्राहिणी तथा ।। २४ ॥
किञ्च पूर्वोक्तरीत्या अस्यामेव धनवेद्यां गोरूपिण्या भूमिदेव्याश्चित्रादिरचनेति भावः । ताञ्च धनवेदिकामेकदण्डनिम्रस्थले स्थापयेत् ॥
किञ्च तत्पुरतः कोशागारकार्यकरलेखकाद्यधिपतीना. मासनान्वितं स्तम्भपोडशकसहितमथवा स्तम्भविंशनिकोपेतं पूर्वशालाकल्पनं कार्यम । किञ्च तस्या एव शालायाः पुरतः पुनरपि क्षुद्रशालाकारमावरणत्रयमहितमन्तरिमयोपेतं कल्पनं स्थापयेत् ।।
तत्र प्रथमावरणद्वारभागे पद्मदलाद्यासनोपरि भासमानां