________________
प्रकल्प्या स्थपतिश्रेष्ठैश्शुभकाले विशेषतः । पौरन्तु कोशसदनं प्रासादान्तर्गतन्तु वा ॥ १६ !! सप्राकारं सदुर्ग वा सप्तभित्तिसमावृतम् । मण्टपाकृतिकं वापि शालाकारमथापि वा ॥१७॥
किञ्च तादृशालिन्दकरणानन्तरमेकमुखशाला स्तम्भाष्टकसहिता स्तम्भद्वादशकसहिता वा भूपालदण्डचतुष्कवैशाल्य. दैर्घ्य प्रमाणोपेता वा स्थाप्या । किञ्च ततः पश्चाद्भागे भूगर्भाख्य निम्नस्थलं कार्यम । म च निन्नभाग एकादशदण्डप्रमाणभागश्च तुरी वाऽऽयतो वा कल्पनीय इति तन्नियमः । किञ्च तस्मिन्नेव भागे गोरूपिण्या भूमिदेव्याः प्रतिमादिस्थापनस्थल कार्यमिति शिल्पज्ञाः ॥ ____ अस्य विशदार्थस्तु तादृशनिम्नस्थले बेदिका निर्माय तदुपरि सकलनिध्याधारभूता या भूमिदेव्याश्चित्रं वा प्रतिकृति वा नवनिधिदेवीनां प्रतिकृति वा स्थापयेदित्यर्थः ।।
इदञ्च लक्षणं पौरायां धनशालायामपि योज्यं इति संप्रदायविदः । अवशिष्टानि लक्षणान्तराणि स्वयमेवोह्य शिल्पी कल्पयेदिति भावः ।।
अथ पुरेषु स्थापनीयराजकीयधनशालाया लक्षणं विशदयति - पौरं तु कोशसदनमित्यादिना । राजकीयामिमा