SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ ३२५ भूम्यां भूगर्भसंयुक्ता मप्तसोपानमंयुता । चतुर या पार्श्वभागे देवीनां स्थानकैर्युता ॥ १५ ॥ धनशालां तावत् प्राकारत्रयावृतस्य कस्यचिद्भवनस्य मध्ये दृढभित्तिसप्तकावृता स्थापयेत् । अत्र तु केचित् प्राकाराणां त्रयभित्युक्त्या प्राकारभित्तित्रयं संपादयित्वाऽवशिष्टं भित्तिचतुष्कमेव तत्र भवनभागे कल्पनीयमिति । तच्च कचिद्यज्यत एव । परन्तु तथाकल्पनमप्यमात्यभूपालस्थ पत्यादीनामिच्छाधीनमिति वयं ब्रूमः ।। सर्वथा परिखया प्राकारभित्त्यादिना च तादृशराजकीयधनशालायाः रक्षाबाहुल्यमवश्यं संपादनीयमित्युपदेष्टारः । एवमेतस्या धनशालायाः परिखाकल्पनाकारस्थापनावश्यकता प्रतिपाद्य तदन्तः करणीयरचनाविशेषमाह - सालिन्देति । पूर्वोक्तरीत्या प्रथमतः परिखाकल्पनं तदन्तः प्राकारभित्तीनिर्माय साधारणदण्डविंशतिकादिपञ्चाशद्दण्डावधिकं भवनकल्पनं सवार्थलोपेतमथवा गणकाद्यासनस्थापनयोग्यस्थाने विशालाभिइशालाभिर्युतं कल्पनं निर्माय मुख्यकल्पनस्यारम्भस्थले पृथुलमेकं मुखद्वारं स्थापयित्वा ततः किञ्चिहरे द्वितीयं द्वारं ततस्तृतीयं द्वारश्च परम्परया किञ्चिद्विच्छित्तिविशेषसहितं स्थापयित्वा तादृशद्वारमध्यभागेऽलिन्दद्वयं स्थापयेत् ।।
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy